हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   Sanatana Dharm సనాతన ధర్మం
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Yuddha Kanda Sarga 39 – युद्धकाण्ड एकोनचत्वारिंशः सर्गः (३९)


॥ लङ्कादर्शनम् ॥

तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः ।
लङ्कायां ददृशुर्वीराः वनान्युपवनानि च ॥ १ ॥

समसौम्यानि रम्याणि विशालान्यायतानि च ।
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ॥ २ ॥

चम्पकाशोकपुन्नागसालतालसमाकुला ।
तमालवनसञ्छन्ना नागमालासमावृता ॥ ३ ॥

हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः ।
तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः ॥ ४ ॥

शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः ।
लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥ ५ ॥

विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः ।
शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ॥ ६ ॥

गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च ।
धारयन्त्यगमास्तत्र भूषणानीव मानवाः ॥ ७ ॥

तच्चैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम् ।
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ॥ ८ ॥

नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः ।
रुतं परभृतानां च शुश्रुवुर्वननिर्झरे ॥ ९ ॥

नित्यमत्तविहङ्गानि भ्रमराचरितानि च ।
कोकिलाकुलषण्डानि विहगाभिरुतानि च ॥ १० ॥

भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च ।
कोणालकविघुष्टानि सारसाभिरुतानि च ॥ ११ ॥

विविशुस्ते ततस्तानि वनान्युपवनानि च ।
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः ॥ १२ ॥

तेषां प्रविशतां तत्र वानराणां महौजसाम् ।
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः ॥ १३ ॥

अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः ।
सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ॥ १४ ॥

वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान् ।
कम्पयन्तश्च तां लङ्कां नादैस्ते नदतां वराः ॥ १५ ॥

कुर्वन्तस्ते महावेगा महीं चारणपीडिताम् ।
रजश्च सहसैवोर्ध्वं जगाम चरणोत्थितम् ॥ १६ ॥

ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः ।
तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥ १७ ॥

शिखरं तत्त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् ।
समन्तात्पुष्पसञ्छन्नं महारजतसन्निभम् ॥ १८ ॥

शतयोजनविस्तीर्णं विमलं चारुदर्शनम् ।
श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि ॥ १९ ॥

मनसाऽपि दुरारोहं किं पुनः कर्मणा जनैः ।
निविष्टा तत्र शिखरे लङ्का रावणपालिता ॥ २० ॥

शतयोजनविस्तीर्णा त्रिंशद्योजनमायता ।
सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसन्निभैः ॥ २१ ॥

काञ्चनेन च सालेन राजतेन च शोभिता ।
प्रासादैश्च विमानैश्च लङ्का परमभूषिता ॥ २२ ॥

घनैरिवातपापाये मध्यमं वैष्णवं पदम् ।
यस्यां स्तम्भसहस्रेण प्रासादः समलङ्कृतः ॥ २३ ॥

कैलासशिखराकारो दृश्यते खमिवोल्लिखन् ।
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् ॥ २४ ॥

शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते । [बलेन]
मनोज्ञां काननवतीं पर्वतैरुपशोभिताम् ॥ २५ ॥

नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ।
नानाविहगसङ्घष्टां नानामृगनिषेविताम् ॥ २६ ॥

नानाकुसुमसम्पन्नां नानाराक्षससेविताम् । [काननसन्तानं]
तां समृद्धां समृद्धार्थां लक्षीवाँल्लक्ष्मणाग्रजः ॥ २७ ॥

रावणस्य पुरीं रामो ददर्श सह वानरैः ।
तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः ।
नगरीममरप्रख्यो विस्मयं प्राप वीर्यवान् ॥ २८ ॥

तां रत्नपूर्णां बहुसंविधानां
प्रासादमालाभिरलङ्कृतां च ।
पुरीं महायन्त्रकवाटमुख्यां
ददर्श रामो महता बलेन ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.